Comments on: Acharya Vaani

by: madhvapati r rao
॥श्रीगुरुभ्यो नमः॥ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥ इति भगवदाश्वासनवचनं तथा तैत्तरीयखण्डार्थे अलूक्षाः अरूक्षाः प्रश्ने कृते कोपरहिताः इति श्रीराघवेन्द्रस्वामिनां व्याख्यानं च मनसि कृत्वा संशयनिवारणार्थं केचित्‌ प्रश्नाः समर्प्यन्ते। (प्रस्तुतबाह्याः इति मा उपेक्षिताः भवन्तु।)

भगवद्गीता न केवलं भारतीयेषु प्रसिद्धा किंतु समस्तब्रह्माण्डे प्रास्ताविका अतः सर्वदेशेषु सर्वकालेषु सर्वसमाजेषु सा उपपद्यते इति सर्वसंमतं। अतः तस्याः केषाञ्चित्‌ श्लोकानां अर्थक्षेत्रं यथाकालं यथावसरं मूलाभिप्रायाणां अविरोधेन विस्तार्य तस्मिन्‌ भारतबाह्येभ्यः अन्यमतेभ्यः स्थानदाने कः दोषः?

उदाहरणतः

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ ४, ११

यतः सर्वे जनाः श्रीहरिमार्गेणैव गच्छन्ति अतः ये यथा इति समासे ईसावीयववनादयोऽपि (Chritians, Muslims etc.) उद्दिष्टाः न भवेयुः किं?

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहं॥ ७, २१

अत्रापि यां तनुं इति समासे वैदिकबाह्यमतानां Crossइत्यादिप्रतीकोपासनाऽपि उद्दिष्टा इति कथने गीता कलुषिता जायेत किं?

येऽप्यन्यदेवताभक्ताः यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकं॥ ९, २३

अत्र अन्यदेवतासु Maryइत्यादिदेवताः न सूच्यन्ते किं?

श्रेयान्‌ स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌। ३, ३५; १८, ४७

अनेन ऐहिकलाभाय धनादिप्रलोभनेन आधुनिकमतपरिवर्तनं सुस्पष्टं द्विवारं न निन्द्यते निषिद्ध्यते च किं?

मध्वपति रामचन्द्रः

by: madhvapati r rao
॥श्रीगुरुभ्यो नमः॥ ऋषीणां तपोभङ्गं विधातुं मेनकाद्यप्सरसः प्रेषिताः इति पुराणेषु श्रूयन्ते। एवमेव आधुनिके वैज्ञानिकतत्त्वानि बुद्धीन्द्रियं वशीकृत्य जिज्ञासूनां युवजनानां मध्वशास्त्रे आसक्तिं ऊनीकुर्वन्ति। अतः जगदपि तथाऽवगन्तव्यं इति तत्त्वसङ्ख्यानटीकायां टीकाकृत्पादानां असन्दिग्धादेशानुसारेण वैज्ञानिकशास्त्रेषु तेषां अभिनिवेशं युक्तप्रकारेण द्रढयितुं तानि वैज्ञानिकतत्त्वानि मध्वशास्त्रशाणाश्मनि तीक्ष्णीकृतया धिया परिच्छेद्यानि। मध्वशास्त्रदृष्ट्या संशयोत्पादकानां वैज्ञानिकतत्त्वानां (विशेषतः प्रमात्राभौतिकशास्त्रतत्त्वानां (quantum physics)) समन्वयं कृत्वा सम्यग्वैष्णवे मार्गे ते अभिनिवेशितव्याः। अतिसूक्ष्मैः देवतानां आध्यात्मिकविचारैः युवजनाः - येषां कृते एताः प्रशंसनीयाः आन्तर्जालदिनपत्रिकाः (blog) प्रकाश्यन्ते - न आकर्षिताः भवेयुः। २१कुशास्त्राणि श्रीमदाचार्याः अखण्डयन्‌ इति सुविदितं। अनादिकालतो वृत्ताः समया हि प्रवाहतः। न चोच्छेदोऽस्ति कस्यापि समस्य इत्युक्त्या ज्ञानचक्षुरुपहत्यया वैज्ञानिकोज्ज्वलभूषणभूषितानि तथाऽपि तमःप्रदानि कुशास्त्राणि उत्पद्यन्ते एव। अतः वैज्ञानिकवचभृत्कुशास्त्रखण्डनं अद्यापि अपेक्ष्यते। मध्वशास्त्रप्रकाशेन युवजनाः गमिताः भवन्तु।

मध्वपति रामचन्द्रः

by: madhvapati r rao
॥श्रीगुरुभ्यो नमः॥ ऋषीणां तपोभङ्गं विधातुं मेनकाद्यप्सरसः प्रेषिताः इति पुराणेषु श्रूयन्ते। एवमेव आधुनिके वैज्ञानिकतत्त्वानि बुद्धीन्द्रियं वशीकृत्य जिज्ञासूनां युवजनानां मध्वशास्त्रे आसक्तिं ऊनीकुर्वन्ति। अतः जगदपि तथाऽवगन्तव्यं इति तत्त्वसङ्ख्यानटीकायां टीकाकृत्पादानां असन्दिग्धादेशानुसारेण वैज्ञानिकशास्त्रेषु तेषां अभिनिवेशं युक्तप्रकारेण द्रढयितुं तानि वैज्ञानिकतत्त्वानि मध्वशास्त्रशाणाश्मनि तीक्ष्णीकृतया धिया परिच्छेद्यानि। मध्वशास्त्रदृष्ट्या संशयोत्पादकानां वैज्ञानिकतत्त्वानां (विशेषतः प्रमात्राभौतिकशास्त्रतत्त्वानां (quantum physics)) समन्वयं कृत्वा सम्यग्वैष्णवे मार्गे ते अभिनिवेशितव्याः। अतिसूक्ष्मैः देवतानां आध्यात्मिकविचारैः युवजनाः - येषां कृते एताः प्रशंसनीयाः आन्तर्जालदिनपत्रिकाः (blog) प्रकाश्यन्ते - न आकर्षिताः भवेयुः। २१कुशास्त्राणि श्रीमदाचार्याः अखण्डयन्‌ इति सुविदितं। अनादिकालतो वृत्ताः समया हि प्रवाहतः। न चोच्छेदोऽस्ति कस्यापि समस्य इत्युक्त्या ज्ञानचक्षुरुपहत्यया वैज्ञानिकोज्ज्वलभूषणभूषितानि तथाऽपि तमःप्रदानि कुशास्त्राणि उत्पद्यन्ते एव। अतः कुशास्त्रखण्डनं अद्यापि अपेक्ष्यते। मध्वशास्त्रप्रकाशेन युवजनाः गमिताः भवन्तु।

मध्वपति रामचन्द्रः